श्री दत्तस्तव स्तोत्र
भूतप्रेतपिशाचाद्या यस्य स्मरणमात्रतः ।।
दूरादेव पलायन्ते दत्तात्रेयं नमामि तं ।।१।।
यन्नामस्मरणाद्-दैन्यं पापं तापश्च नश्यति ।।
भीतिग्रहार्तिदु:स्वप्नं दत्तात्रेयं नमामि तम् ।।२।।
दद्रुस्फोटककुष्ठादि महामारी विषूचिका ।।
नश्यन्ति अन्येSपि रोगाश्च दत्तात्रेयं नमामि तम् ।।३।।
संगजा देशकालोत्था अपि सांक्रमिका गदा: ।।
शाम्यन्ति यत्स्मरणतो दत्तात्रेयं नमामि तम् ।।४।।
सर्पवृश्चिकदष्टानां विषार्तानां शरीरिणाम् ।।
यन्नाम शान्तिदं शीघ्रं दत्तात्रेयं नमामि तम् ।।५।।
त्रिविधोत्पातशमनं विविधारिष्टनाशनम् ।।
यन्नाम क्रूरभीतिघ्नं दत्तात्रेयं नमामि तम् ।।६।।
वैर्यादिकृतमन्त्रादिप्रयोगा यस्य कीर्तनात ।।
नश्यन्ति देवबाधाश्च दत्तात्रेयं नमामि तम् ।।७।।
यच्छिष्यस्मरणात्सद्यो गतनष्टादि लभ्यते ।।
य ईश: सर्वतस्त्रांता दत्तात्रेयं नमामि तम् ।।८।।
जयलाभयशःकामदातुर्दत्तस्य यः स्तवम् ।।
भोगमोक्षप्रदस्येमं पठेद्-दत्तप्रियो भवेत् ।।९।।
इति श्रीवासुदेवानन्दसरस्वतीविरचितं दत्तस्तवस्तोत्रं संपूर्णम् ।।