प्रज्ञावर्धनस्तोत्रम्
(येथून पुढचा संकल्प एक वेळा म्हणावा.)
अस्य श्रीप्रज्ञावर्धनस्तोत्रमंत्रस्य, सनत्कुमार ऋषिः, स्वामी कार्तिकेयो देवता, अनुष्टुभ् छंदः, मम सकलविद्यासिद्ध्यर्थं जपे विनियोगः।
॥श्रीस्कंद उवाच॥
( येथून पुढील २८ नावे १२ वेळा म्हणावीत.)
योगीश्वरो महासेन:, कार्तिकेयोऽग्निनंदनः।
स्कंदःकुमारः सेनानी:, स्वामीशंकरसंभवः॥१॥
गांगेयस्ताम्रचूडश, ब्रह्मचारी शिखिध्वजः ।
तारकारिरुमापुत्रः, क्रौंचाराति: षडाननः॥२॥
शब्दब्रह्मस्वरूपश्च, सिद्धः सारस्वतो गुरुः।
सनत्कुमारो भगवान्, भोगमोक्षप्रदप्रभुः॥३॥
शरजन्मा गणाधीशपूर्वजो मुक्तिमार्गकृत् ।
सर्वागमप्रणेताच, वांछितार्थप्रदर्शनः॥४॥
(येथून पुढील फलश्रुती एकवेळा म्हणावी.)
अष्टाविंशति नामानि, मदीयानि च य: पठेत् ।
प्रत्यूषे श्रद्धया युक्तो मूको वाचस्पतिर्भवेत्॥५॥
महामंत्रमयानीति, मम नामानि कीर्तयेत् ।
महाप्रज्ञामवाप्नोति, नात्र कार्या विचारणा॥६॥
इतिश्रीस्कंदपुराणे कार्तिकेयमाहात्म्ये प्रज्ञावर्धनस्तोत्रं संपूर्णम्॥