नवग्रहपीडाहरस्तोत्र

कुंडलीमधे नवग्रह अशुभ स्थानी पडले असतील तर , तसेच अशुभ ग्रहांची पीडा नष्ट व्हावी, यासाठी स्तोत्राचा पाठ करतात.

श्री गणेशाय नमः।

ग्रहाणामादिरादित्यो लोकरक्षणकारक: ।
विषमस्थानसम्भूतां पीडां हरतु मे रवि: ।।

रोहिणीशः सुधामूर्ति: सुधागत्रः सुधाशनः ।
विषमस्थानसंभूतां पीडां हरतु मे विधु: ।।

भूमिपुत्रो महातेजां जगतां भयकृत सदा ।
वृष्टिकृदृष्टीहर्ता च पीडां हरतु मे कुज: ।।

उत्पातरुपो जगतां चन्द्रपुत्रो महाद्युति: ।
सूर्यप्रियकरो विद्वान पीडां हरतु मे बुधः।।

देवमन्त्री विशालाक्षः सदा लोकहिते रतः ।
अनेकशिष्येसम्पूर्णः पीडां हरतु मे गुरु: ।।

दैत्यमन्त्री गुरुस्तेषां प्राणदश्च महामति: ।
प्रभुस्ताराग्रहाणांश्च पीडां हरतु मे भृगु: ।।

सूर्यपुत्रो दीर्घदेहो विशालाक्षः शिवप्रियः ।
मन्दचारः प्रसन्नात्मा, पीडां हरतु मे शनि: ।।

महाशिरा महावक्रो दीर्घदंष्ट्रो महाबलः ।
अतनुश्चोर्ध्वकेशश्च पीडां हरतु मे शिखी: ।।

अनेकरुपवर्णैश्च शतशोSथ सहस्त्रशः ।
उत्पातरुपो जगतां पीडां हरतु मे तमः ।।